||Sundarakanda ||

|| Sarga 9||( Only Slokas in Devanagari) )

Select Sloka Sript in Devanagari / Telugu/ Kannada/ Gujarati /English

सुन्दरकाण्ड्.
अथ नवमस्सर्गः

तस्यालय वरिष्टस्य मध्ये विपुलमायतम्।
ददर्श भवनं श्रेष्टं हनुमान्मारुतात्मजः॥1||

अर्थयोजन विस्तीर्णम् आयतं योजनं हि तत्।
भवनं राक्षसेन्द्रस्य बहुप्रासादसंकुलम्॥2||

मार्गमाणस्तु वैदे हीं सीतां आयतलोचनाम्।
सर्वतः परिचक्राम हनुमान् अरिसूदनः॥3||

उत्तमम् राक्षसावासं हनुमान् अवलोकयन्।
अससाथ लक्ष्मीवान् राक्षसेंद्रनिवेशनम्॥4||

चतुर्विषाणैर्द्विरदैः त्रिविषाणैः तथैव च।
परिक्षिप्तमसंबाधं रक्ष्यमाणमुदायुधैः ॥5||

राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम्।
अहृताभिश्च विक्रम्य राजकन्याभिरावृतम्॥6||

तन्नक्रमकराकीर्णं तिमिंगिलझषाकुलम्।
वायुवेग समाधूतं पन्नगैरिव सागरम्॥7||

याहि वैश्रवणे लक्ष्मी र्याचेन्द्रे हरिवाहने।
सा रावणगृहे सर्वा नित्यमेवानपायिनी॥8||

या च राज्ञः कुबेरस्य यमस्य वरुणस्य च।
तादृशी तद्विशिष्टा वा ऋद्धी रक्षोगृहे ष्विह॥9||

तस्य हर्मस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम्।
बहुनिर्यूह संकीर्णं ददर्श पवनात्मजः॥10||

ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद्विश्वकर्मणा।
विमानं पुष्पकं नाम सर्वरत्नविभूषितम्॥11||

परेण तपसा लेभे यत्कुबेरः पितामहत्।
कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः॥12||

ईहामृग समायुक्तैः कार्तस्वरहिरण्मयैः।
सुकृतैराचितं स्तंभैः प्रदीप्तमिव च श्रिया॥13||

मेरुमंदरसंकाशै रुल्लिखद्भि रिवांबरम्।
कूटागारै श्शुभाकारैः सर्वतः समलंकृतम्॥14||

ज्वलनार्क प्रतीकाशं सुकृतम् विश्वकर्मणा।
हेमसोपान संयुक्तं चारुप्रवर वेदिकम्॥15||

जालावातायनैर्युक्तं काञ्चनैः स्पाटिकैरपि।
इन्द्रनील महानील मणि प्रवर वेदिकम्॥16||

विद्रुमेण विचित्रेण मणिभिश्चमहाघनैः।
निस्तुलाभिश्च मुक्ताभिः तलेनाभि विराजितम्॥17||

चन्दनेन च रक्तेन तपनीयनिभेन च।
सुपुण्यगन्धिनायुक्तं आदित्यतरुणोपमम्॥18||

कूटागारैर्वराकारैः विविधैः समलंकृतम्।
विमानं पुष्पकं दिव्यं आरुरोह महाकपिः॥19||

तत्रस्थः स तदा गन्धं पानभक्ष्यान्नसंभवम्।
दिव्यं सम्मूर्छितं जिघ्र द्रूपवंत मिवानलम्॥20||

स गन्धस्त्वं महासत्त्वं बंधुर्बंधुमिवोत्तमम्।
इत एही त्युवाचे न तत्र यत्र स रावणः॥21||

तत स्थां प्रस्थितः शालाम् ददर्श महतीं शुभाम्।
रावणस्य मनः कान्तां कान्तामिव वरस्त्रियम्॥22||

मणिसोपानविकृतां हेमजालविभूषिताम्।
स्पाटिकैरावृततलां दन्तान्तरितरूपिकाम्॥23||

मुक्ताभिश्च प्रवाळैश्च रूप्यचामीकरैरपि।
विभूषितां मणिस्तम्भैः सुबहूस्तम्भभूषिताम्॥24||

नम्रैरृजुभिरत्युच्चैः समंतात्सुविभूषितैः ।
स्तंभैः पक्षैरिवात्युच्चैर्दिवं संप्रस्थितामिव ॥25||

महत्या कुथयास्तीर्णां पृथिवी लक्षणाङ्कया।
पृथिवीमिव विस्तीर्णं सराष्ट्र गृहमालिनीम्॥26||

नादितां मत्तविहगैः दिव्यगन्धादिवासिताम्।
परार्थ्यास्तरणो पेतां रक्षोधिपनिषेविताम्॥27||

धूम्रां अगरुधूपेन विमलां हंसपाण्डुराम्।
चित्रां पुष्पोपहारेण कल्माषी मिव सुप्रभाम्॥28||

मनः संह्लाद जननीं वर्णस्यापि प्रसादिनीम्।
तां शोकनाशिनीं दिव्यां श्रियः संजननीमिव॥29||

इन्द्रियाणीन्द्रियार्थैस्तु पञ्चपञ्चभिरुत्तमैः।
तर्पयामास मातेव तदा रावणपालिता॥30||

स्वर्गोऽयं देवलोकोऽयं इन्द्रस्येयं पुरी भवेत्।
सिद्धिर्वेयं पराहिस्या दित्यमन्यत मारुतिः॥31||

प्रध्यायत इवापस्यत् प्रदीप्तां स्तत्र कांचनान्।
धूर्तानिव महाधूर्तै र्देवनेन पराजितान्॥32||

दीपानां च प्रकाशेन तेजसा रावणस्य च।
अर्चिर्भिः भूषणानां च प्रदीप्तेत्यभ्य मन्यत॥33||

ततोऽपश्यत्कुथाऽऽसीनं नानावर्णाम्बरस्रजम्।
सहस्रं वरनारीणां नानावेष विभूषितम् ॥34||

परिवृत्तऽर्थरात्रे तु पाननिद्रावशं गतम्।
क्रीडित्वोपरतं रात्रौ सुष्वाप बलवत्तदा॥35||

तत्प्रसुप्तं विरुरुचे निश्शब्दान्तरभूषणम्।
निश्शब्दहंस भ्रमरं यथा पद्मवनं महत्॥36||

तासां संवृतन्तानि मीलिताक्षाणि मारुतिः।
अपश्यत् पद्मगन्धीनि वदनानि सुयोषिताम्॥37||

प्रबुद्धानिव पद्मानि तासां भूत्वाक्षपाक्षये।
पुनस्संवृतपत्त्राणि रात्राविव बभुस्तदा॥38||

इमानि मुखपद्मानि नियतं मत्तषट्पदाः।
अम्बुजानीव पुल्लानि प्रार्थयन्ति पुनः पुनः॥39||

इतिचामन्यत श्रीमान् उपपत्त्या महाकपिः।
मेने हि गुणतस्तानि समानि सलिलोद्भवैः॥40||

सा तस्य शुशुभेशाला ताभिः स्त्रीभि र्विराजिता।
शरदीव प्रसन्ना द्यौः ताराभिरभिशोभिता॥41||

स च ताभिः परिवृतः शुशुभे राक्षसाधिपः।
यथा ह्युडु पतिः श्रीमां स्ताराभिरभिसंवृतः॥42||

याश्च्यवन्तेऽ‍म्बबरात्ताराः पुण्यशेष समावृताः।
इमास्ताः संगताः कृत्स्ना इति मेने हरिस्तदा॥43||

ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम्।
प्रभावर्ण प्रसादाश्च विरेजुस्तत्र योषिताम्॥44||

व्यावृत्तगुरु पीनस्रक्प्रकीर्ण वरभूषणाः।
पानव्यायमकालेषु निद्रापहृतचेतसः॥45||

व्यावृत्त तिलकाः काश्चित् काश्चिदुद्भ्रांतनूपुराः।
पार्श्वे गळितहाराश्च काश्चित् परमयोषिताः॥46||

मुक्ताहाराऽवृता श्चान्याः काश्चित् विस्रस्तवाससः।
व्याविद्दरशनादामाः किशोर्य इव वाहिताः॥47||

सुकुण्डलधराश्चान्या विच्छिन्नमृदितस्रजः।
गजेन्द्रमृदिताः पुल्ला लता इव महानने॥48||

चन्द्रांशुकिरणाभाश्च हाराः कासांचिदुत्कटाः।
हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम्॥49||

अपरासां च वैढूर्याः कादंबा इव पक्षिणः।
हेमसूत्राणि चान्यासाम् चक्रवाक इवाभवन्॥50||

हंसकारण्डवाकीर्णाः चक्रवाकोपशोभिताः।
आपगा इव ता रेजुर्जघनैः पुलिनैरिव॥51||

किङ्किणीजाल संकोशास्ता हैमविपुलांबुजाः।
भावग्राहा यशस्तीराः सुप्तानद्य इवाऽऽबभुः॥52||

मृदुष्वङ्गेषु कासांचित् कुचाग्रेषु च संस्थिताः।
बभूवुर्भूषणा नीव शुभा भूषणराजयः॥53||

अंशुकान्ताश्च कासांचिन् मुखमारुतकंपिताः।
उपर्युपरिवक्त्राणां व्याधूयन्ते पुनः पुनः॥54||

ताः पताकाइवोद्थूताः पत्नीनां रुचिरप्रभाः।
नानावर्ण सुवर्णानाम् वक्त्रमूलेषु रेजिरे॥55||

ववल्गुश्चात्र कासांचित् कुण्डलानि शुभार्चिषाम्।
मुखमारुत संसर्गान् मन्दं मन्दं सुयोषिताम्॥56||

शर्करऽसन गन्धैश्च प्रकृत्या सुरभिस्सुखः।
तासां वदननिश्व्यासः सिषेवे रावणं तदा॥57||

रावणाननशङ्काश्च काश्चित् रावणयोषितः।
मुखानि स्म सपत्नीनां उपाजिघ्रन् पुनः पुनः॥58||

अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः।
अस्वतन्त्राः सपत्नीनां प्रियमेवाऽऽचरं स्तदा॥59||

बाहून् उपविधायान्याः पारिहार्यविभूषितान्।
अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे॥60||

अन्यावक्षसि चान्यस्याः तस्याः काश्चित् पुनर्भुजम्।
अपरात्वंक मन्यस्याः तस्याश्चाप्यपराभुजौ॥61||

ऊरुपार्श्वकटी पृष्ठं अन्योन्यस्य समाश्रिताः।
परस्परनिविष्टाङ्ग्यो मदस्नेहवशानुगाः॥62||

अन्योन्यभुजसूत्रेण स्त्रीमालाग्रथिता हि सा।
मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा॥63||

लतानां माधवे मासि पुल्लनां वायुसेवनात् ।
अन्योन्यमालाग्रथितं संसक्त कुसुमोच्चयम्॥64||

व्यतिवेष्टित सुस्कंधं अन्योन्यभ्रमराकुलम्।
आसीद्वन मिवोद्धूतम् स्त्रीवनं रावणस्य तत्॥65||

उचितेष्वपि सुव्यक्तं न तासां योषितां तदा।
विवेकः शक्य आधातुं भूषणाङाम्बर स्रजाम्॥66||

रावणेसुखसंविष्टे ताः स्त्रियो विविध प्रभाः।
ज्वलन्तः काञ्चना दीपाः प्रैक्षंताऽनिमिषा इव॥67||

राजर्षिपितृदैत्यानां गन्धर्वाणां च योषितः।
राक्षसानां च याः कन्याः तस्य कामवशं गताः॥68||

युद्धकामेन ताः सर्वा रावणेन हृता स्त्रियः।
समदा मदनेनैव मोहिताः काश्चिदागताः॥69||

न तत्र काचित् प्रमदा प्रसह्य
वीर्योपपन्नेन गुणेन लब्धा।
न चान्यकामापि न चान्यपूर्वा
विना वरार्हं जनकात्मजां ताम्॥70||

न चाकुलीना न च हीनरूपा
नादक्षिणा नानुपचारयुक्ता।
भार्याऽभवत्तस्य न हीनसत्त्वा
न चापि कान्तस्य न कामनीया॥71||

बभूव बुद्धिस्तु हरीश्वरस्य
यदीदृशी राघव धर्मपत्नी।
इमा यथा राक्षसराज भार्याः
सुजातमस्येति हि साधुबुद्धेः॥72||

पुनश्च सोऽचिंतय दार्तरूपो
ध्रुवं विशिष्टा गुणतो हि सीता।
अधाय मस्यां कृतवान् महात्मा
लङ्केश्वरः कष्ट मनार्यकर्म॥73||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे नवमस्सर्गः॥

॥ओम् तत् सत्॥